Skip to main content

Posts

Showing posts from April 22, 2007

मा हसन्तु...

एकदा रीना सुधा च चलचित्रमन्दिरं गतवत्यौ। चलचित्रेश्वश्र्वाः अभिनयः ताभ्यां बहु अरोचत । ते उभे अपि अतीव प्रसन्ने । अतः सुधा रीनाम् अवदत् - "सखि! या श्वश्रूः चलचित्रे अस्ति, तस्याः स्वभावः बहु उत्तमः । एतादृशी एव श्वश्रूः निजजीवने अपि यदि प्राप्येत् तर्हि वैवाहिकजीवनंनितरां श्लाघ्यं स्यात्" इति। एतत् श्रुत्वा पृष्ठभागे उपविष्टवान् युवकः उक्तवान् - "मम मातुः स्वभावः अपि एतादृशः एव अस्ति" इति ।

मा हसन्तु....

एकदा कापि प्रेमिका प्रियेण सह कस्यचित् ज्योतिषाचार्यस्य पार्श्वं गतवती।तदा ज्योतिषाचार्येण पृष्टम्-" किं भवती प्रियस्य एतस्य भविष्यं ज्ञातुम् इच्छति?" इति। तदा तया तरून्या उक्तम्-"एतस्य भविष्यं तु मम हस्ते एव अस्ति। अतःकिं तस्य ज्ञानार्थं प्रयत्नेन ? एतस्य भूतकालिकं सर्वं वदतु । तदह्ं ज्ञातुम् इच्छामि" इति ।